वांछित मन्त्र चुनें

उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रव॑: । सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोना॑म् ॥

अंग्रेज़ी लिप्यंतरण

ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ | sā no bodhy avitrī marutsakhā coda rādho maghonām ||

पद पाठ

उ॒भे इति॑ । यत् । ते॒ । म॒हि॒ना । शु॒भ्रे॒ । अन्ध॑सी॒ इति॑ । अ॒धि॒ऽक्षि॒यन्ति॑ । पू॒रवः॑ । सा । नः॒ । बो॒धि॒ । अ॒वि॒त्री । म॒रुत्ऽस॑खा । चोद॑ । राधः॑ । म॒घोना॑म् ॥ ७.९६.२

ऋग्वेद » मण्डल:7» सूक्त:96» मन्त्र:2 | अष्टक:5» अध्याय:6» वर्ग:20» मन्त्र:2 | मण्डल:7» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (शुभ्रे) हे पवित्र स्वभाववाली विद्ये ! (पूरवः) मनुष्य लोग तुम से (उभे) दो प्रकार के फल लाभ करते हैं, (यत्ते) तुम्हारे वे दोनों (अन्धसी) दिव्य हैं अर्थात् एक अभ्युदय और दूसरा निःश्रेयस, (सा) वह ब्रह्मविद्या (नः) हमारी (बोध्यवित्री) बोधन करनेवाली है, (मघोनां) ऐश्वर्य्य में से सर्वोपरि ऐश्वर्य्य (राधः) जो धनरूप है, हे विद्ये ! तू वह (चोद) हमको दे ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (शुभ्रे) हे शुद्धे ! (पूरवः) मनुष्याः त्वत्तः (उभे) द्वे फले लभन्ते (यत्, ते) ये फले ते (अन्धसी) दिव्ये स्तः अभ्युदयनिःश्रेयाख्ये च (सा) सा ब्रह्मविद्या (नः) अस्माकं (बोध्यवित्री) बोधनकर्त्री भवति (मघोनाम्) ऐश्वर्याणां सर्वोपरि (राधः) यद्धनमस्ति, हे विद्ये ! (चोद) तन्मह्यं प्रयच्छ। (मरुत्सखा) त्वं ज्ञानाधारोऽसि (महिना, अधिक्षियन्ति) तव महिम्ना तत्र ज्ञाने ते भक्ता निवसन्ति ॥२॥